________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१८४॥
त्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या। किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाहपंचासह आयामा धणूणि विच्छिण्ण पण्णवीसंतु। छत्तीसइमुग्विद्धासीया चंदप्पभा भणिआ॥९३॥(भा०) ___ व्याख्या-पञ्चाशत् धनूंषि आयामो-दैर्घ्य यस्याः सा पञ्चाशदायामा धनूंषि, विस्तीर्णा पञ्चविंशत्येव, षटूत्रिंशद्धनूंषि 'उविद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना 'भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः॥ सीआइ मझयारे दिव्वं मणिकणगरयणचिंचइसीहासणं महरिहं सपायवीढं जिणवरस्स ॥९४॥(भा०)
व्याख्या-शिबिकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्य' सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महार्ह, तत्र मणयः-चन्द्रकान्ताद्याः कनक-देवकाञ्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइ ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमहतीति महार्ह, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थः॥ आलइअमालमउडो भासुरवोंदी पलंबवणमालो । सेययवत्थनियत्थो जस्स य मोल्लं सयसहस्सं ॥९५॥ छट्टेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो। लेसाहिं विसुज्झंतो आरुहई उत्तमं सीअं ॥९६॥ (भा०)
* सुंदरेण वृत्ती.
AAG
॥१८४॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org