________________
thARRRRRY
RSS
पंचविहे माणुस्से भोगे मुंजितु सह जसोआए । तेयसिरिव सुरुवं जणेइ पिअदसणं धूअं ॥८॥(भा० ) | गमनिका-'पञ्चविधान' पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्री तेजःश्रीः तां तेजःश्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां धुतां' दुहितरं, 'जणिंसु' वा पाठः, जनितवानिति गाथार्थः॥ द्वारम् । अत्रान्तरे च भगवतः मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा|3|| शक्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो न । वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन् तस्थौ, अत्रान्तर एव महादानं दत्तवान् ,लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिःप्रवजित इति॥अमुमेवार्थ संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत्हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो । बजरिसहसंघयणो भविअजणविबोहओ वीरो॥४५९॥
सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापिइहिं भयवं देवत्तगएहिं पब्वइओ ॥ ४६०॥ | गमनिका-'हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभए संहननो भव्यजनविबोधको वीरः, किम् ?-मातापितृभ्यां भगवान देवत्वगताभ्यां प्रव्रजित इति योगः। द्वितीयगाथाग
*SHAWISHLISAS
* तओ वृत्तौ प्र०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org