________________
आवश्यक॥१८२॥
गमनिका — शक्रश्च 'तत्समक्षं' लेखाचार्यसमक्षं 'भगवंतं' तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा 'पुच्छिंसु सद्दलक्खणं, वागरणं अवयवा इंदं पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिक सामयिकाः शब्दा अनेनेति व्याकरणं - शब्दशास्त्रं, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं संजातमिति गाथार्थः ॥ द्वारम् । विवाहद्वारावयवार्थमभिधित्सयाऽऽह—
उम्मुकबालभावो कमेण अह जोव्वणं अणुप्पत्तो । भोगसमत्थं गाउं अम्मापिअरो उ वीरस्स ॥ ७८ ॥ ( भा० ) गमनिका — एवं उन्मुक्तो बालभावो येनेति समासः, 'क्रमेण' उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगाः - शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं कौ ? - मातापितरौ तु वीरस्येति गाथार्थः ॥ किम् ? -
तिहिरिक्खमि पसत्थे महन्तसामन्तकुलपसूआए । कारंति पाणिगहणं जसोअवररायकण्णाए ॥ ७९ ॥ ( भा० ) गमनिका - तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्षं-नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणग्रहणं पाणिग्रहणं, कया ? - यशोदा वासौ वरराजकन्या चेति विग्रहः तया, तत्र 'महासामन्तकुलप्रसूतया' इत्यनेनान्वय महत्त्वमाह, 'वरराजकन्यया' इत्यनेन तु तत्कालराज्यसंपद्युक्ततामाहेति गाथार्थः ॥ द्वारम् । अपत्यद्वारावयवार्थे व्याचिख्यासुराह -
Jain Education International
For Personal & Private Use Only
हारिभद्री -* यवृत्तिः विभागः १
॥१८२॥
jainelibrary.org