________________
उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरव्वे । हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ॥५०॥(भा०) ___ गमनिका-उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति | उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थः॥ यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्-एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति।स हि तदादेशात्तथैवचक्रे भाष्यकारस्तु अमुमेवार्थ 'अह भणती' त्यादिना प्रतिपादयतिअह भणइ णेगमेसिं देविंदो एस इत्थ तित्थयरो।लोगुत्तमो महप्पा उववण्णो माहणकुलंमि ॥५१॥ (भा०) ___गमनिका-'अथ' अनन्तरं भणति 'णेगमसिं' ति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः 'एष' भगवान् 'अत्र' ब्राह्मणकुले |'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः ॥ इदं चासाधु, ततश्चेदं कुरु
खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थिा सिद्धत्थभारिआए साहरतिसलाइ कुच्छिसि॥५२॥ (भा०) | गमनिका-क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः॥ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे॥५३॥ (भाष्यम् ) । गमनिका-स हरिणेगमेषिः 'बाढंति भाणिऊण'ति बाढमित्यभिधाय, अत्यर्थ करोमि आदेश, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः॥
Jain Education International
For Personal & Private Use Only
hainelibrary.org