________________
एता ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियन्ते । माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववण्णो देवाणंदाइ कुच्छिसि ॥ ४५७॥
अस्या व्याख्या-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गाथार्थः॥४५७॥साम्प्रतं वर्धमानस्वामिवक्तव्यतानिवद्धां द्वारगाथामाह नियुक्तिकारः
सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ ५ बुड्डि ६ सरणं ७ च ।
भेसण ८ विवाह ९ वच्चे १० दाणे ११ संबोह १२ निक्खमणे १३ ॥ ४५८॥ 8 गमनिका-सुमिणेति' महास्वप्ना वक्तव्याः, यान तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्क्राम-18 दान्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभि-1
गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसे उत्तिा अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'वुड्डित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम । 'सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । 'विवाहेति' विवाहविधिर्वक्तव्यः। 'अवच्चेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ ४५८ ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org