SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१७॥ स्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥१॥" इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः द इति गाथार्थः ॥ ४३८-४३९ ॥ इक्खागेसु मरीई चउरासीई अबंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ ४४० ॥ गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्क पालयित्वा 'बभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्छयुत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीतिं पूर्वशतसहस्राण्यायुष्कमनुपाल्य 'संसारेत्ति' तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः॥४४०॥ संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्याजात इति, अमुमेवार्थ 'थूणाईत्यादिना प्रतिपादयति थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवठ्ठीसाणकप्पंमि ॥४४१॥ व्याख्या-स्थूणायां नगर्यो पुष्पमित्रो नाम ब्राह्मणः संजातः 'आउं बावत्तरि सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजघन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवठ्ठीसाणकप्पमीति' सौधर्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परिवाटू च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः॥४४१॥ ॥१७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy