________________
कर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥ अमुमेवार्थ प्रतिपादयन्नाह
दुब्भासिएण इक्केण मरीई दुक्खसायरं पत्तो। भमिओ कोडाकोडिं सागरसरिनामधेजाणं ॥४३८॥ तम्मूलं संसारो नीआगोत्तं च कासि तिवइंमि । अपडिकंतो बंभे कविलो अंतद्धिओ कहए ॥ ४३९॥ प्रथमगाथागमनिका-दुर्भाषितेनैकेन'उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तःभ्रान्तः कोटीना कोटी कोटीकोटी तां, केषामित्याह-'सागरसरिनामधेजाणंति' सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्थः। द्वितीयगाथागमनिका-'तन्मूलं' दु
र्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अपडिकतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रतिक्रान्तः' अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिः देवः संजात इति। कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रवाजित इति, तस्य स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुराग. तत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमनन्तरमेव अवधिं प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कपिलो अंतद्धिओ कहए' कपिलः अन्तर्हितः कथितवान्, किम् ?-अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः-"प्रकृतेमहांस्ततोऽहङ्कार
dain Education International
For Personal & Private Use Only
www.jainelibrary.org