SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ १७० ॥ णित्ता परिणिधुडो य । आइञ्च्चजसो सक्केणाभिसित्तो, एवमद्वपुरिसजुगाणि अभिनित्ताणि । उक्तो भावा (गाथा) र्थः, साम्प्रतमक्षरगमनिका - आदर्शकगृहे प्रवेशः, कस्य? 'भरहेत्ति' भरतस्य प्राकृतशैल्या पष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गुलीयस्य वभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः ॥४३६॥ उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति - तत्र - पुच्छता कहे उट्ठिए देइ साहुणो सीसे । गेलन्नि अपडिअरणं कविला इत्थंपि इहयंपि ॥ ४३७ ॥ गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ:- स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा स ग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूवया तदन्तिकमागत इति, कथिते साधुधर्मे स आह- यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह - पापोऽहं, 'लोएंदिये' त्यादि विभाषा पूर्ववत्, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह - तथापि किं भवद्दर्शने नास्त्येव धर्म इति, मरीचिरपिप्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह- 'कविला एत्थंपत्ति' अपिशब्दस्यैवकारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ ४३७ ॥ स ह्येवमा१ परिनिर्वृतश्च । आदित्ययशाः शक्रेणाभिषिक्तः, एवमष्टपुरुषयुगान्यभिषिक्तानि । Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ९७० ॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy