________________
A
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१४॥
CCAMSAMROSALASSROO
ख्यापनार्थ, शृणोति 'नियमात् नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः?-तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः ॥ ६॥ केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशङ्कय गुरुराहगिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं । एगन्तरं च गिण्हइ, णिसिरइ एगंतरं चेव ॥७॥ व्याख्या-तत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्थान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, सचाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिकेनैव, निसृजत्युत्सृजतिमुञ्चतीति पर्यायाः,तथेत्यानन्तर्यार्थः, उक्तिर्वाक वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन। कथं गृह्णाति निसृजतीति वा ? किमनुसमयं उत अन्यथेत्याशङ्कासंभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थः-प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सन्निति, एवमेकैकस्मात्समयाद एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथासमुदायार्थः। अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात् , निसृजति तु कथं वाचिकेन ?, को
॥१४॥
ते लुग्वा' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवप्रयोगेण सम्पूर्णपदोपस्थित्या तदवबोधः, एवं च समस्तस्थल एवायं न तु व्यस्तस्थले.
Jain Education International
For Personal & Private Use Only
Sainelibrary.org