________________
नोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदाान्तिकयोवैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः॥५॥
किं च प्रकृतं ?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि ? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह
भासासमसेढीओ, सई जं सुणइ मीसयं सुणई। वीसेढी पुण सई, सुणेइ नियमा पराघाए॥६॥ व्याख्या-भाष्यत इति भाषा, वक्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्युदासार्थ, इह श्रेणयः क्षेत्रप्रदेशपङ्कयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ताइतो भाषासमश्रेणीतः, इतो गतःप्राप्तः स्थित इत्यनान्तरम् , एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति । शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्द 'यं' पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवति-व्युत्सृष्टद्रव्यभावितापान्तरालस्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थों भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम
. भाषावर्गणाद्रव्येति.
BREAMERASACRACK
dain Education International
For Personal & Private Use Only
www.panelibrary.org