________________
आवश्यक
॥१३॥
SHOCASSROCEASOSASSOSEX
सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्रा प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमे- हारिभद्रीतत्, तद॑स्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत् , न, तत्रापि तदुपलब्धौ |
यवृत्तिः क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमा
विभागः१ ण्वादी दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोतं-'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोःसंपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते 'वेति । आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयतेति । किं च-द्रव्यमनो वा बहिः निस्सरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा ?, न तावद्भावमनः, तस्य शरीरात्रत्वात् , सर्वगतत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसः। अथ द्रव्यमनः, तदप्ययुक्तं, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत् , अज्ञत्वात्, उपलवत् । आह-करणत्वाव्यमनसस्तेनं प्रदीपेनेव है प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्म
॥१३॥
सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह-सूक्ष्मत्वाञ्चेति. २ शूलजलादिः. ३ प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्भावने. ४ नायनमरीचीनां. ५ अयुक्तमेतदिति संटङ्कः ६ शरीरप्रमाणत्वात् विहाय तन्न तदवस्थानमित्यर्थः. ७ आकाशादिवत्. ८ यमनियमोच्छेदप्रसङ्गः. ९ द्रव्यमनसा. * त्रमेतत् ४. MI+ चेति. अति० १-२-३. अति० ४.१ प्राप्ति० ५-६. श्चरेत् ५-६. 11 नास्तीदम् ५-६.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org