________________
देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुलङ्घय कस्माच्चक्षुरादीनि रूपादिकमर्थ न गृह्णन्तीति, उच्यते, सामर्थ्याभावात् , द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात् , इह यत् पुद्गलमात्रनिवन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्ट, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः ॥
साम्प्रतं यदुक्तमासीत् यथा “नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकं, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात् , मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-"अमुंत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः। किं च-यदि हि प्राप्तिनिवन्धनौ विषयकृतावनुग्रहोपघातौ स्यातां, एवं तर्हि अग्निशूल'जलाद्यालोकनेषु दाहभेदक्केदादयः स्युरिति । किं च प्राप्त विषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह-नायना मरीचयो निर्गत्य तमर्थ गृह्णन्ति, ततश्च तेषां तैजसत्वात् | सर्वेन्द्रियापेक्षया. २ प्राप्यकारीन्द्रियचतुष्कापेक्षया. ३ क्षेत्रेति. ४ विषयेति. ५ विप्रकृष्ट कस्मिंश्विनिर्दिश्यमाने स्थले इति. ६ नयनमरीचीनामेव निर्गमात, चक्षुषश्चानिर्गमात्. * निबन्धन, १-२-३-४ + निबन्धन. १-२-३-४ जलशूला. क्लेिदभेदा.
POSSESSE SISSEIG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org