________________
आवश्यक ॥ १२ ॥
बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति । त्रिप्रकाराश्च श्रोतारो भवन्ति — केचिदू उर्दूघटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपचितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः स्पृष्टं च तद्वद्धं च स्पृष्टबद्धं तत्र स्पृष्टं गन्धादि विशेष्यं, बद्धमिति च विशेषणं । आह— एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्वद्धं न ते तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो, यथा अद्रव्यं पृथिवी द्रव्यमिति, भावनाअबू द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब् चानबू 'चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम् - आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वादू अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् ।
आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्यविषयः ?, कियेतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वङ्गुला संख्येयमात्राद्देशात्, उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुला संख्येयभागमात्रा१ श्रोत्रापेक्षयाऽपि २ पुनःशब्देन विशेषितेऽस्पृष्टत्वे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगाथापेक्षया विषयक्षेत्रपरिमाणज्ञानार्थश्च द्वितीय इति वा. + वेति.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ १२ ॥
www.jainelibrary.org