SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहपुढे सुणेइ सई रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥५॥ व्याख्या-आह-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमार्थ पुनहरयं प्रयास इति, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्व दोषः। तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत् , शृणोति गृह्णाति उपलभत इति पर्यायाः, कम् ?-शब्द्यतेऽनेनेति शब्दः तं शब्द प्रायोग्यं द्रव्यसंघात, इदमत्र हृदयम्-तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणा-3 ला प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति ।रूप्यते इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपल भत इत्ये कोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि -अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते घायत इति गन्धस्तं, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्ट नैवशरावे तोयवदात्मप्रदेशैरात्मीकृत्तमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'बद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धं । आह-यद्बद्ध गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽर्थावग्रहसद्धावादस्त्येव पटुतरतेति प्राय इति. २ स्पर्शाभावे बन्धाभावसत्त्वेऽपि स्पष्टत्वार्थमेतत् , प्राणादीन्द्रियेभ्यो निपुणताख्यानाय वा. * नास्तीदम् १-२-३-४. PRIROCROSSROAG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy