________________
AN
आवश्यक
SEARSONASALA
परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणादू जरत्पशाटिकापाटनदृष्टान्ताच्च हारिभद्री
अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग् अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातव्यौ । यवृत्तिः ६ ईहा चावायश्च ईहावायौ, प्राकृतशैल्या बहुवचनं, उक्तं च-“दुवयणे बहुवयणं छठ्ठीविहत्तीऍ भण्णइ चउत्थी। जह हत्था विभागः१ है तह पाया, णमोऽत्थु देवाहिदेवाणं ॥१॥” तावीहावायौ मुहूर्ताध ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः
कालोऽभिधीयते, तस्या तु मुहूर्ताध, तुशब्दो विशेषणार्थः, किं विशिनष्टि-व्यवहारापेक्षया एतद् मुहर्तार्धमुक्तं, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये त्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्त्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादय इत्येवंभूता यस्यासावसंख्यः, पल्वोपमा-2 ६ दिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः पक्षमासत्वयनादव इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तर्मुहूर्त च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थः-अवायोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्त भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥४॥ भाष्यकारादिव्याख्यानात्. २ बहुवचनं द्विवचने पाठीविभक्तौ भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ३ "अद्धाजो
W ॥११॥ गुक्कोसे" इत्यादिवचनादपवर्जनासंमवात्तद्रहितानामसंख्येयायुषामितिदर्शनाय पल्योपमेत्यादि. 'जीर्यत्० ५-६ । ज्ञातव्यौ १-२-३-४५ बहुवयणेण दुचयणं |१-२-३-४१ भण्णए ५-६.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org