________________
तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्प्रकारा वेंति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति 1 अन्ये त्वेवं पठन्ति - ' अत्थाणं उग्गहणमि + उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे - " अगणिं च खलु पुट्ठा एगे संघायमाव - जंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः - अग्नौ च पतिता 'एके' शलभादयः 'संघातमापद्यन्ते' अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः, तस्मादू अग्निसमारम्भोऽनेक सत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥ ३ ॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह—
"उग्गह इक्कं समयं ईहावाया | मुहुत्तमजं तु । कालमसंखं संखं च धारणा होइ णायवा ॥ ४ ॥ व्याख्या - तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति संबन्धः, तत्र कालः
१ नोइन्द्रियस्यापि ग्रहणमुपलक्षणात्, अन्यथा न स्युर्भेदाः पटू, इन्द्रियत्वं वाभिप्रेतमन्त्र तस्याभ्यन्तरनिर्वृत्यन्वितत्वात् २ ज्ञायतेऽनेन आचाराङ्गव्याख्या श्रीमतां कालात्प्राक्तनीति ३ अर्थावग्रहो द्विधा जघन्य उत्कृष्टश्च, आयो नैश्चयिक एवेतरः सांव्यवहारिक इति जघन्यो नैश्चथिक इति प्रोचुः, व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति न्यायात्. *एवेत्यर्थः, संक० + उवग्गहो. * उग्गहु (नि० ३) मुहुचमन्तं तु ( वृ० )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org