________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयोः "पुढे सुणेइ सई रूवं पुण पासई अपुढे तु" इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस. मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः । 'तथा' इत्यानन्तर्ये 'विचारणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति संबन्धः । एतदुक्तं भवति- अवनहादुत्तीर्णः अवायात्पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शङ्खशब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शाङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, तं व्यवसायं च, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवतिशाख एवायं शाङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवत इति भावार्थः। धृतिर्धरणं, अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रवत इति, अनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिल्लमांस-सर्पोत्पलनालादी इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दादिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः,
१ गाथा०५२ चक्षुरादीनां क्रमशो दृष्टान्तदर्शनात् कोष्ठपुटाख्यो गन्धद्रव्यविशेषः ३ स्वप्नात्. * अप्राप्यकारित्वात् ५.६ toधनावन.
ब्रुवत इति भावार्थः । इत्यवधारणात्मकः प्रत्ययोऽवायति वर्त्तते, अवायं ब्रुवत इति
१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org