________________
पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशेषधरणं धारणा, एवकारःमप्रदर्शनार्थः, 'एवं अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदा विकल्पा अंशा इत्यनान्तरं, त एव वस्तूनि भेदवस्तूनि, कथम् ?, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काका नीयते-एवं भवन्ति चत्वार्याभिनिवोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति गाथार्थः ॥२॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाह
अस्थाणं ओगहणमि उग्गहो तह थियारणे ईहा । ववसायंमि अवाओ धरणमिय पारणं चिंति ॥३॥ व्याख्या-तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्, ते च रूपादयः, तेषां अर्थानां, प्रथम दर्शनानन्तरं ग्रहणं अवग्रहणं अवग्रहं ब्रुवत इतियोगः । आह-वस्तुनः सामान्य विशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति । स च द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः १, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियं | शब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो
(अत्थाणं ओग्गहणं, उमाहं तह वियालणं ईंहं । ववसायं च अवार्य, धरणं पुण धारणं बित्ति ॥३॥)*क्रमदर्शनार्थः धरणं पुण! महणं अवग्रहं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org