________________
आवश्यक शक्रोऽभिहितवान्-त्वादधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं श्रावका अधिका इति । 'जेया वइत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरत्नेन लाञ्छनं-चिह्नं तेषां कृतमासीत् 'अणुसज्जणा अट्ठ ेत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावदिति गाथार्थः ॥ तत ऊर्ध्व मिथ्यात्वमुपगता इति ॥ ३६२ ॥
॥१५७॥
राया आइन्चजसो महाजसे अइवले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य || ३६३ ।। भावार्थ: सुगम एवेति गाथार्थः ॥
एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ । पवरो जिणिंदमउडो सेसेहिं न चाइओ वोढुं ॥ ३६४ ॥ गमनिका — एभिरर्धभरतं सकलं भुक्तं, शिरसा धृतश्च, कोऽसावित्याह – प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैःनरपतिभिः न शकितो वोढुं महाप्रमाणत्वादिति गाथार्थः ॥ ३६४ ॥
| अस्सावगपडिसेहो छट्ठे छडे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ ।। ३६५ ॥ गमनिका - अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोग :- परीक्षा, कालेन गच्छता | मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ ३६५ ॥ साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह
* प्रथमो.
Jain Educationtional
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥१५७॥
www.jainelibrary.org