SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ SROSAROSAROSSIOSANSOME वर्धते भयं तस्मा । हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित , आः ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्व संवेगं यातवान् इति । अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात् , आह भरतः-पृच्छापूर्वकं देयमिति । ततस्तान पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवान् , पुनः षण्मासेन येऽन्ये भवन्ति | तानपि लाञ्छितवान् , षण्मासकालादनुयोगं कृतवान् , एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं द्र नासीत् , सुवर्णमयानि यज्ञोपवीतानि कृतवान् , महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, |इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयतिसमुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ।जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ॥३६२॥ गमनिका-समवसरण भगवतोऽष्टापदे खल्वासीत् , भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान् , भगवांश्च तस्मै प्रतिपादितवान् । 'अंगुलि झय'त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः। 'सक्कत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy