________________
आवश्यक
हारिभद्री
यवृत्तिः विभागः१
॥१५६॥
SOSASSASASLISTASUSING
वग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताधिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोडनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाहगुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः १, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात् , पुनरप्याह भरतः-तस्याकृतिमात्रेणापि अस्माकं कौतुकं, तन्निदयंतां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वरामदर्शयत् , दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततःप्रभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान्-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान्
इमनलाविति पादिक इमनि रूपं, बाहुल्याद् अनुक्तान्महेः, तथा च बजनिभ्यामिममिति सूत्रेणेमन् , दीर्घादिस्त्वप्रस्तुत एच. *खाप ग्रह. +मा
SAX
॥१५६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org