________________
GACCORMACOCCAS
लक्षणं ततोऽस भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रम अविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं पागडरूवं दह पुच्छिसु बहुजणो धम्मं । कहतींसु जतीणं सो वियालणे तस्स परिकहणा ॥१॥' प्रवर्तत इति गाथार्थः॥ ३६० ॥ 'धम्मकहाअक्खित्ते उवट्टिए देइ भगवओसीसे । गामनगराइआई विहरइ सो सामिणा सद्धिं ॥ ३६१॥
गमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धं, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥ ३६१ ॥ अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान् , तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृति चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयश्च तान् भोगैः निराकृतश्च चिन्तयामास| एतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योप
निमन्त्र्य आधाकाहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान् , राजपिण्डोऽप्यकल्पहनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहः राजा
*प्रतिषिदे.
Join Education International
For Personal & Private Use Only
www.jainelibrary.org