SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ SONOMAMMALLAGAL संयतास्तु, अहं हो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताविरमणं मे सदा भवत्विति गाथार्थः॥३५४॥ निकिंचणा य स अकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥३५५॥18|| __गमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम्-अल्पमपि येषां | तेऽकिञ्चना-जिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किञ्चनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः ॥ ३५५॥ तथाववगयमोहा समणा मोहच्छण्णस्स छत्तयं होउ । अणुवाहणा य समणा मज्झं तु उवाहणा होन्तु ॥ ३५६॥ गमनिका-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानकाश्च श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ ३५६ ॥ तथासुकंबरा य समणा निरंबरा मज्झ धाउरत्ताई । हुंतुं इमे वत्थाई अरिहो मि कसायकलुसमई ॥ ३५७॥ गमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (ग्रन्थाग्रम् ४०००) येषां ते निरम्बरा POSLALISASAKALA * काञ्चनं. + ०ञ्चन अ०. नाश्च जि०. गाथार्थः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy