SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ १५४॥ के ते १, गुणाः विशिष्टक्षान्त्यादयस्तान् कुतो !, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ॥ ३५१ ॥ ततश्च किं मम युज्यते ?, गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यं - एवमणुचिंतंतस्स तस्स निअगा मई समुप्पण्णा । लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ ३५२ ॥ व्याख्या – ' एवं ' उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजा मतिः समुत्पन्ना न परोपदेशेन, स ह्येवं चिन्तयामास - लब्धो मया वर्त्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः ॥ ३५२ ॥ यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाह समणा तिदंडविरया भगवंतो निहुअसंकुहअअंगा । अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं ॥ ३५३ ॥ गमनिका — श्रमणाः मनोवाक्काय लक्षण त्रिदण्डविरताः, ऐश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि - अन्तःकरणाशुभव्यापारचिन्तनपरित्यागात् संकुचितानि - अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः - ' अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि चक्षुरादीनि दण्डाश्च - मनोवाक्कायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्न, अविस्मरणार्थमिति गाथार्थः ॥ ३५३ ॥ लोइंदिअमुंड गमनिका - Jain Educatilational अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ वेरमणं मे सया होउ ॥ ३५४ ॥ यो भवति - द्रव्यतो भावतश्च तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथम् ?, लोचेन इन्द्रियैश्च मुण्डाः For Personal & Private Use Only +4+% हारिभद्री - यवृत्तिः विभागः १ ॥१५४॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy