SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ तयोश्च भरत भरतः ॥ स एव थमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते विधुरोऽथ नरपतिर्विचिन्तितवान् किं मन्ये एष चक्रवतीं ? यथेदानीं दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् 'अर्हन्' आदितीर्थकरः, 'हस्तिनः अवतर' इति चोक्ते चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥ उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले के वलिप र्षदं गत्वा तीर्थ नत्वा आसीनः ॥ अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपार्श्वे विहरति तपःसंयमसमग्रः ॥ स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ॥ ३२-३७ ॥ अह अण्णा काई गिम्हे उण्हेण परिगयसरीरो । अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ ३५० ॥ गमनिका - 'अथ' इत्यानन्तर्ये 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अस्नानेनेति' अस्नानपरीषहेण त्याजितः संयमात् 'एतत्कुलिङ्गं' वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ ३५० ॥ मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमणुकखी ॥ ३५१ ॥ गमनिका — मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्त्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, * दुहितरौ + पदो० 1 परिषदं तत्तीर्थं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy