SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 'सयराहमिति' देशीवचनं युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति । 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोपचारान्मतुब्लोपाछेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा - प्राप्ता बुद्धिर्यस्य स तथाविधः । शेषं सुगममिति गाथाचतुष्टयार्थः ॥ ३४४-३४७ ॥ कथानकम् — भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निवत्ताए अठ्ठाहिआए तं चक्करयणं पुर्बीहिमुहं पहाविअं, भरहो सबबलेण तमणुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुत्रेण य मागहतित्थं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कगाभिं जात्र, ततो णामंकं सरं विसज्जियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्त भवणे पडिओ, सो तं दद्दूण परिकुविओ भणइ - केस णं एस अपत्थिअपत्थिए ?, अह नामयं पासइ, नायं जहा उप्पण्णो चक्कवट्टित्ति, सरं चूडामणि च घेत्तूण उवडिओ भणति - अहं ते पुबिल्लो अंतेवालो, ताहे तस्स अट्ठाहिअं महामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे १ भरतोऽपि भगवतः पूजां कृत्वा चक्ररत्नस्याष्टाहिकामहिमानं कृतवान्, निवृत्तेऽष्टाहिके तच्चक्ररत्वं पूर्वाभिमुखं प्रधावितं, भरतः सर्वबलेन तदनुगतवान् तयोजनं गत्वा स्थितं, ततः सा योजनसंख्या जाता, पूर्वस्यां च मागधतीर्थं प्राप्याष्टमभक्तोषितो रथेन समुद्रमवगाह्य चक्रनाभिं यावत्, ततो नामाङ्कं शरं विसृष्टवान् स द्वादश योजनानि गत्वा मागधतीर्थकुमारस्य भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति क एषोऽप्रार्थितप्रार्थकः ?, अथ नाम पश्यति, ज्ञातं यथा उत्पन्नश्चक्रवर्त्तीति शरं चूडामणिं च गृहीत्वोपस्थितो भणति अहं तव पौरस्त्योऽन्तपालः, तदा तस्याष्टाहिकं महामहिमानं करोति । एवमेतेन क्रमेण दक्षिणस्यां वरदामं अपरस्यां प्रभासं, तदा * मरीचिवान् + पुञ्चामुहं. Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy