________________
हारिभद्रीयवृत्तिः विभागः१
आवश्यक
देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता
टाइति गाथार्थः ॥ ३४१॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाह॥१४८॥
उजाणपुरिमताले पुरी(इ) विणीआइ तत्थ नाणवरं । चक्कुप्पांया य भरहे निवेअणं चेव दोण्हंपि ॥ ३४२ ॥
गमनिका-उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन , पर्या विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । 'भरहे निवेअर्ण चेव दोण्हाप' त्ति |भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचक्ररत्नयोः तन्नियुक्तपरुषैः कृतमित्यध्याहार इति गाथार्थः ॥ ३४२ ॥ अत्रान्तर |भरतश्चिन्तयामास-पूजा तावद्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररत्नस्य उत तातस्येति, तत्रतायंमि पूइए चक्क पूइअं पूअणारिहो ताओ । इहलोइअं तु चकं परलोअसुहावहो ताओ ॥ ३४३ ॥ | गमनिका-'ताते'-त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव. तत्पूजानिबन्धनत्वाच्चक्रस्य । तथा पूजामहेतीति पूजार्हः तातो वत्तेते, देवेन्द्रादिनुतत्वात्। तथा इह लोके भवं चैहलौकिकंतु चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्रं, सांसारिकसुखहेतुत्वात् । परलोके सुखावहः परलोकसुखावहस्तात, शिवसुखहेतुत्वाद् इति गाथार्थः ॥३४३ ॥ तस्मात् "तिष्ठतु तावच्चक्रं, तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरणसंदेशव्यापृतो बभूव । इदानीं कथानकम्
HASSASSASSASSA
॥१४८॥
* चकुपाओ य (स्यात् ) + आउहवरसालाए उप्पणं चक्करयण भरहस्स । जक्खसहस्सपरिवुढं सबरयणामयं चकं ॥१॥ (प्र० अव्या०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org