SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ १४७॥ धिकृत्य प्रवर्त्तितं, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति - श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीतिभक्त्या रत्नमयं पीठं कारितं । गुरुपूजेति तदर्चनं चक्रे इति । अत्रान्तरे भगवतः तक्षशिलातले गमनं बभूव, भगवत्प्रवृत्तिनियुक्त पुरुपैर्बाहुबलेर्निवेदनं च कृतमित्यक्षरगमनिका । एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या गमनिका कार्येति गाथार्थः ॥ ३२२ - ३३४ ॥ इदानीं कथानक शेषम् — बाहुबलिणा चिंतिअं - कल्ले सबिड्डीए वंदिस्सामित्ति निग्गतो पभाए, सामी गतो विहरमाणो, अदिट्ठे अद्धितिं काऊण जहिं भगवं वुत्थो तत्थ धम्मचक्कं चिंधं कारियं, तं सवरयणामयं जोयणपरिमंडलं पंचजोयणूसियदंडं । सामीवि बहलीय डंबइलाजोणगविसयाइएस निरुवसग्गं विहरंतो विणी अणगरीए उज्जाणत्थाणं पुरिमतालं नगरं संपत्तो । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगड - मुहं नाम उज्जाणं, तंमि णिग्गोहपायवस्स हेट्ठा अमेणं भत्तेणं पुण्हदेसकाले फग्गुणबहुलेक्कारसीए उत्तरासाढणक्खत्ते पवज्जादिवसाओ आरम्भ वाससहस्संमि अतीते भगवओ तिहुअणेक्कबंधवस्स दिवमणंतं केवलनाणमुप्पण्णंति । अमुमेवार्थमुपसंहरन् गाथाषङ्कमाह • १ बाहुबलिना चिन्तितम् - कल्ये सर्वर्ध्या वन्दिष्य इति निर्गतः प्रभाते, स्वामी गतः विहरन्, अदृष्ट्वाऽष्टतिं कृत्वा यत्र भगवानुषितस्तत्र धर्मचक्रं चिह्नं कारितं, तत् सर्वरत्नमयं योजनपरिमण्डलं पञ्चयोजनोच्छ्रितदण्डं । स्वाम्यपि बहुल्यडम्बइल्लायोनकविषयादिकेषु निरुपसर्गं विहरन् विनीतनगर्या उद्यानस्थानं पुरिमतालं नगरं संप्राप्तः । तत्र च उत्तरपूर्वदिग्भागे शकटमुखं नाम उद्यानं, तस्मिन् न्यग्रोधपादपस्याधः अष्टमेन भकेन पूर्वाह्लदेशकाले फाल्गुनकृष्णैकादश्यां उत्तराषाढानक्षत्रे प्रव्रज्यादिवसादारभ्य वर्षसहस्रेऽतीते भगवतस्त्रिभुवनैकबान्धवस्य दिव्यमनन्तं केवलज्ञानमुत्पन्नमिति । Jain Education International For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः १ ॥ १४७॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy