SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ व्याख्या - एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्श्वे मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षड्तिः पुरुषशतैः सह निष्क्रान्तः - प्रब्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्रैः सह ऋषभः, किम् ?, निष्क्रान्त इति वर्त्तते, शेषास्तु- अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादितमेवेति गाथार्थः ।। २२४ - २२५ ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह— वीरो अरिनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि ॥ २२६ ॥ निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाह सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥ २२७॥ गमनिका - सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः । ततश्च य उपधिरा सेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन वर्त्तमानावसर्पिणीतीर्थ करप्रतिपादिकेति । गतमुपधिद्वारम् इदानीं लिङ्गद्वारं सर्वे तीर्थकृतः तीर्थकर लिङ्ग एव निष्क्रान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ २२७ ॥ इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह Jain Educational For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy