________________
भावार्थ: स्पष्ट एव, नवरं पूर्वसूर्ये - पूर्वाह्णे इत्यर्थः, इति गाथार्थः ॥ २१६ ॥ कियत्प्रतिदिनं दीयत इत्याह
एगा हिरण्णकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ || २१७ ॥ गमनिका - पूर्वार्ध सुगमं, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः कियन्तं कालं यावत् ? - प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावत् इति गाथार्थः ॥ २१७ ॥ यथा दीयते तथा प्रतिपादयन्नाह -
| सिंघाडगतिगचउक्कचच्चरच उमुहमहापह पहेसुं । दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥ २९८ ॥ वरवरिआ घोसिज्जइ किमिच्छअं दिजए बहुविहीअं । सुरअसुरदेव दाणवनरिंदमहिआण निक्खमणे ॥ २१९ ॥
तत्र शृङ्गाटकं 4 त्रिकं चतुष्कं + चत्वरं * चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्घाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थ:, 'रथ्यामुखानि' रथ्याप्रवेशा 'मध्येकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ॥ किं ?, वरवरिका घोष्यते- वरं याचध्वं वरं याच ध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमि - च्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्त
सिङ्गाटकं + मध्या०. 1 याचयध्वं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org