SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥ १३५॥ सारस्सय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य । तुसिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ।। २१४ ।। गमनिका - 'सारस्यमादिच्चत्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्नयरुणाश्च, गर्दतोयाश्च तुषिता अव्यावाधाः 'अग्गिच्चा चेव रिट्ठा यत्ति' अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तात्स्थ्यात्तापदेश:' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना त्वेवम् । उक्तं च भगवत्याम् - " कहिं णं भंते ! कण्हराईओ पण्णत्ताओ ?, गोयमा ! उष्पिं सणकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिट्ठे विमाणपत्थडे, एत्थ णं अक्खाडगसमचउरंस संठाणसंठियाओ अट्ठ कण्हराईओ पण्णत्ताओ" एताश्च स्वभावत एवात्यन्तकृष्णा वर्त्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥ २१४ ॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगज्जीवहिअं भयवं । तित्थं पवतेहिं ॥ २१५ ॥ गमनिका - एते देवनिकायाः स्वयं बुद्धमपि भगवन्तं बोधयन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् ?, सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्त्तयस्वेति गाथार्थः ॥ २१५ ॥ उक्तं संबोधनद्वारम् इदानीं |परित्यागद्वारमाह संवच्छरण होही अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्यसंपयाणं पवत्तए पुत्र्वसूरंमि ॥ २१६ ॥ १ कुत्र हे भगवन् ! कृष्णराजयः प्रज्ञप्ताः १, गौतम ! उपरि सनत्कुमार माहेन्द्रयोः कल्पयोरधस्ताद्ब्रह्मलोके कल्पे रिष्ठे प्रस्तट विमाने, अत्र अक्षाटकसम चतुरस्रसंस्थानसंस्थिता भ्रष्ट कृष्णराजयः प्रज्ञताः. * संबन्धविवक्षा. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥१३५॥ wwww.jainielibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy