SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ उपायो- द्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायस्तस्य देशका : - देशयन्तीति देशकाः, ते च सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः । तथा पर्याय इति कः कस्य प्रव्रज्यादिपर्याय इत्येतद्वक्तव्यं । तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता ? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः ॥ २०९ - २१०-२११ ॥ इदानीं प्रथमद्वारगाथाऽऽद्यदलावयवार्थप्रतिपादनायाह सव्वेऽवि सयंबुद्धा लोगन्तिअबोहिआ य जीएणं १ । सव्वेसिं परिचाओ संवच्छरिअं महादाणं ॥ २१२ ॥ व्याख्या -- सर्व एव तीर्थकृतः स्वयंबुद्धा वर्त्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात्, लोकान्तिकाः - सारस्वतादयः तद्बोधिताश्च जीतमितिकृत्वा - कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत - स्वयं बुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिकं महादानं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ २१२ ॥ रज्जाइच्चाओऽवि य २ पत्तेअं को व कत्तिअसमग्गो ३ । को कस्सुवही १ को वाऽणुण्णाओ केण सीसाणं४ ॥ २९३ ॥ व्याख्या - राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥ २१३ ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह * धर्मोपायस्य. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy