________________
आवश्यक
॥१३४॥
इति । 'अन्यलिङ्गं साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकर
हारिभद्री लिङ्ग एवेति, ग्राम्याचाराः-विषयाः परीषहाः-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रवजितै-|
यवृत्तिः विषया न भुक्ताः शेषैर्भुक्ताः, परीषहाः पुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । साम्प्रतं द्वितीयगाथागम- विभागः१ निका-तत्र जीवोपलम्भः सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभ:-पूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः, कः कियन्तं कालं छद्मस्थः खल्वासीदिति । तथा तपःकर्म-किं कस्येति वक्तव्यं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । साम्प्रतं तृतीयद्वारगाथागमनिका-तत्र तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुक्तशब्दार्थ तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं । गण इति-एकवाचनाचारक्रियास्थानां समु-18
॥१३४॥ दायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकारः, ते च कस्य कियन्त इति वक्तव्यम् । तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org