SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१३॥ हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्त धृत्वेति, तृतीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु स्वेदयित्वेति ॥ अमुमेवार्थमुपसंहरन्नाह|घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई। घसणतिम्मपवाले हत्थउडे कक्खसेए य॥९॥ (मृ० भा०) | भावार्थ उक्त एव, नवरम् उक्ताक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो वेदितव्यः, 'घृष्टिप्रवालपुटतीमितभोजिान' इत्यनेन द्वितीययोजनाक्षेपः, 'घृष्ट्रेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः॥ अत्रान्तरे अगणिस्स य उढाणं दुमघंसा दह भीअपरिकहणं ।। __ पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ॥१०॥(मू० भा०) __ आह-सर्व तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्युत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ने वयनुत्पत्तेरिति । स च भगवान् विजानाति-न ह्येकान्तस्निग्धरूक्षयोः कालयोहयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थभङ्गविकल्पि * सेईम. + तिमितं. घिष्ट्वा. स सन् कि०. || चतुर्भ०. ॥१३॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy