________________
गमनिका — ओममप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिनं' प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणी स्थितिप्रदर्शनार्थो वर्त्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ? - आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थतलपुडाहारा जहआ किर कुलकरो उसहो ॥ ८ ॥ ( मू० भा० )
व्याख्या - सँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां धटुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति - ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुढे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते । पुनः कियताऽपि कालेन गच्छता अर्जरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्, हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ॥ पुनरभिहितप्रकारव्यादिसंयोगे राहारितवन्तः, तद्यथा- पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त्त धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्त| पुटेषु च मुहूर्त्त धृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि
* घृष्टुं. + अजीरण० ऋषभः
Jain Education International
For Personal & Private Use Only
inelibrary.org