________________
आवश्यक
हरिभातीयवृत्तिः विभाग:१
॥१३०॥
पृच्छनं पृच्छा,साइकिणिकादिलक्षणा इकिणिकाः कर्णमूले घण्टिकां चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ॥२०३-२०४२०५-२०६ ॥ इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह
__ आसी अ कंदहारा मूलाहारा य पत्तहारा य।
पुप्फफलभोइणोऽवि अ जइआ किर कुलगरो उसभो॥५॥(मू०भा०) गमनिका-आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा ?, यदा किल कुलकर ऋषभः। भावार्थः स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन् , किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः ॥ तथा
आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुँति ।
सणसत्तरसं धणं आम ओमं च भुंजीआ ॥६॥ (मू० भा०) गमनिका-आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं 'धान्य' शाल्यादि 'आम' अपक्कं 'ओम' न्यूनं च 'भुंजीआ' इति भुक्तवन्त इति गाथार्थः ॥ ६॥ तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाँश्चाह-हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकृत्ओमंपाहारंता अजीरमाणमि ते जिणमुर्विति।हत्थेहिँ घंसिऊणं आहारेहत्ति ते भणिआ॥७॥(मू०
॥१३०॥
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org