________________
आवश्यक
| हारिभद्री
यवृत्तिः विभागः१
॥१२६॥
ArtRoro
बिल्वो(म्बो)ष्ठः, धवले दन्तपङ्की यस्य स धवलदन्तपत्रिका, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निःश्वासो यस्येति गाथार्थः ॥ १९१-१९२ ॥ इदानी जातिस्मरणद्वारावयवार्थ विवरिषुराह
जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं ।
कंती हि य बुद्धी हि य अन्भहिओ तेहि मणुएहिं ॥ १९३ ॥ गमनिका-जातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिर्ज्ञानः-मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव ६ अप्रच्युतं भगवतो भवति, तथा कान्त्या च बुद्ध्या च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः ॥ १९३ ॥
इदानीं विवाहद्वारव्याचिख्यासयेदमाहपढमो अकालमचू तहिं तालफलेण दारओ पहओ। कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती ॥१९४॥ __ व्याख्या-भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनक तालवृक्षाधो विमुच्य रिरंसया
क्रीडागृहकमगमत् , तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत् , तेन दारको व्यापादितः, तदपि मिथुनकं तां दारिका |संवर्धियित्वा प्रतनुकषायं मृत्वा सुरलोक उत्पन्नं, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधूसमानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन् , शिष्टे च तैः कन्या कुलकरण गृहीता ऋषभपत्नी भविष्यतीतिकृत्वा, अयं गाथार्थः॥ भगवांश्च तेन कन्याद्वयेन सार्ध विहरन् यौवनमनुप्राप्तः, अत्रान्तरे
* विवूर्षु०. + कंतीइ. बुद्धीइ. संवर्ध्य. लोकमुत्पन्नं.
॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org