SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गओ, पुणोवि-जं च जहा जंमि वए जोग्गं कासी य तं सब'ति । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते-तत्र | शको देवराडिति 'वंशस्थापने' प्रस्तुते इर्धा गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खं अकु-18 भक्षयसि ?, अकुशब्दः भक्षणार्थे वर्त्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः-इक्षुभोजिनः, इक्ष्वाका' ऋषभनाथवंशजा इति । एवं 'यच्च' वस्तु 'यथा' येन प्रकारेण 'यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभगिणी होही पत्तीति सारवणा' 'तालफलाहांतभगिनी भविष्यति पत्नीति सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुनकै भिसकाशमानीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति, तथा चानन्तरं वक्ष्यति “णंदाय सुमंगला सहिओ"। अन्ये तु प्रतिपादयन्ति -सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते-'जम्मणे य विवडीय'त्ति, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याहअह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ॥१९१॥ असिअसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपउमगभगोरो फुल्लुप्पलगंधनीसासो ॥ १९२॥ प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका-न सिता असिता:-कृष्णा इत्यर्थः, शिरसि जाताः शिरोजाः-केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयनः, बिल्वं(म्बं)-गोल्हाफलं बिल्व(म्ब)वदोष्ठौ यस्यासौ १ गतः, पुनरपि यच्च यथा यस्मिन्वयसि योग्यं अकार्षीच्च तत्सर्वमिति । * भगवं. + भक्षणार्थः. ६०कव । फलाहतं. तदैव. फलाहत. jain Educa For Personal & Private Use Only wilmi.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy