SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे वइरजंघो॥१॥ (प्रक्षिप्ता) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेहिमच्चासत्थाहसुया वयंसा से ॥१७२ ॥1 । अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो घोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैरजङ्घः । इयमन्यकर्तृकी गाथा सोपयोगा च । तृतीयगाथागमनिका-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः 'से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना घोषणं कारितवानित्यादि । कथानकम्- 'तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो नाम सत्थवाहो होत्था, सो खितिपतिहिआओ नयराओ वसंतपुरं पढिओ वणिजेणं, घोसणयं कारेइ-'जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति,' तंजहा-खाणेण वा पाणेण वा वत्थेण वा पत्तेण वा ओसहेण वा भेसज्जेण वा अण्णेण वा केणई जो जेण विसूरइत्ति तस्मिन्काले तस्मिन्समयेऽवरविदेहे वर्षे धनो नाम सार्थवाहोऽभूत् , स क्षितिप्रतिष्ठितात् नगराद्वसन्तपुरं प्रस्थितो वाणिज्येन, घोषणां कारयति-यो मया साधं याति तस्याहमुदन्तं वहामीति, तद्यथा-खादनेन वा पानेन वा वस्त्रेण वा पात्रेण वा औषधेन वा भैषम्येन वा अन्येन वा यो (बिना) येन केनचिद्विपीदति इति' * इयं अन्यककी सोपयोगा चेति वृत्तिकाराः. + धनसा० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy