________________
आवश्यक
हारिभद्री
यवृत्तिः विभागः१
॥११४॥
tonton
भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्तिन एवं चतुर्विधा नीतिरिति गाथार्थः॥३॥ अथ कोऽयं भरत इत्याह-ऋषभनाथपुत्रः,अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः,इदानीं प्राक्सूचितेक्ष्वाकुवंशःप्रतिपाद्यते-सचऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनाभी विणीअभूमी मरुदेवी उत्तरा य साढा य । राया य वारणाहो विमाणसव्वट्ठसिद्धाओ ॥ १७०॥
गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः कार्यः, स चेत्थम्-नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद् , मरुदेवीति तस्य भार्या,
राजा चप्राग्भवे वैरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः ४ तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः॥१७॥
इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पयेटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराह|घणसत्थवाह घोसण जइगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥ १७१॥
*प्रतिपादं. + धणमिहुणसुरमहब्बलललियंगयवइरजंघमिहुणे य । सोहम्मविजभचुभ चक्की सबह उसभे अ ॥ १॥ (गाथेयं भव्याख्याता नियुक्तौ)
॥११४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org