________________
|पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा-धिक्काराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः॥१६८॥ सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स ।उसभरस गिहावासे असक्कओ आसि आहारो ॥१६९॥
गमनिका-शेषा तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थ, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः ॥ १६९ ॥ इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह
परिभासणा उ पढमा मंडलिबंध मि होइ बीया उ।
चारग छविछेआई भरहस्स चउब्विहा नीई॥३॥t (भाष्यम्) गमनिका-यदुक्तं शेषातु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य'सेयं-परिभाषणातु प्रथमा,मण्डलीवन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोडभिधानं, तथा मण्डलीबन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं __* भाष्यकारेण व्याख्यानादस्याः मूलत्वं तन्न पाश्चात्यभागकल्पना नियुक्तेः. मूलभाष्य + बंधोमि । मूलभाष्यगाथेति नियुक्तिपुस्तके।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org