SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ गमनिका-चक्षुष्मान् यशस्वी च प्रसेनजिच्चैते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा-छाया येषां ते तथाविधा इति गाथार्थः ॥ १५८ ॥गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽहचंदजसचंदकंता सरूव पडिरूव चक्खुकता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥१५९॥ गमनिका-चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति Pगाथार्थः ॥ १५९ ॥ एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आह संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाओं पियंगुवण्णाओ ॥१६०॥ | गमनिका-संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः-आत्मीयैः, समं-अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन पाईपन्यूना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥१६० ॥ स्त्रीद्वारं गतं, इदानीं आयुारम्पलिओवमसभाए पढमस्साउं तओ असंखिजा । ते आणुपुविहीणा पुव्वा नाभिस्स संखेजा ॥१६१॥ | व्याख्या-पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्ययानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः ॥ १६१॥ * भागो. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy