________________
आवश्यक- 5 मीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् । व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकर
हारिभद्री नामप्रतिपादनायाह
यवृत्तिः ॥१११॥
विभागः१ पढ मित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥ १५५ ॥ BI गमनिका-प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति,8 दभावार्थः सुगम एवेति गाथार्थः ॥ १५५ ॥ गतं नामद्वारम् , अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह
__णव धणुसया य पढमो अट्ठय सत्तसत्तमाइं च । छच्चेव अद्धछट्ठा पंचसया पण्णवीसं तु ॥१५६॥ | व्याख्या-नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये 8 पठन्ति-पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः ॥१५६॥ गतं प्रमाणद्वारं, इदानी कुलकरसंहननसंस्थानप्रतिपादनायाहबजरिसहसंघयणा समचउरंसा य हुंति संठाणे । वण्णंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥१५७॥
गमनिका-वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्य माणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीदिति गाथार्थः ॥ १५७ ॥
॥१११॥ चक्खुम जसमंच पसेणइ एए पिअंगुवण्णाभा।अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ १५८॥
वसुदेवहिण्डीतः * पण्णवीसा य. + पञ्चविंशतिश्च. प्यमाणे.
RRRRRRRRRRR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org