SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ MMSRLMMAKALAMS गाथागमनिका-अर्धभरतमध्यमत्रिभागे, कस्मिन् ?-गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्ध भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः ॥ १५१ ॥ इदानी कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाह| पुव्वभवजम्मनामं पमाण संघयणमेव संठाणं । वणित्थियाउ भागा भवणोवाओ य णीई य* ॥१५२॥ गमनिका-कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याःPकस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपात प्रदर्शनार्थ, तथा नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थे तु प्रतिद्वारं वक्ष्यति ॥ १५२ ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहअवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओ अ आयाया ॥१५३ ॥ दहूं सिणेहकरणं गयमारुहणं च नामणिप्फत्ती। परिहाणि गेहि कलहो सामत्थण विनवण हत्ति ॥ १५४॥ गमनिका-अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामथणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना-ह * पुत्वभव कुलगराणं उसभजिणिदस्स भरहरणो अ । इक्खागकुलुप्पत्ती णेयचा आणुपुबीए । (गाथैषा नियुक्तिपुस्तकेऽव्याख्याता च ). Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy