SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभागः१ ॥१०॥ व्याख्या-ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जात' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ १८॥ यतश्चैवमतःइक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥ १४९ ॥ __ व्याख्या-इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जात' उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः 4वाह इति समासः, तस्मिन्नतीते-अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः, इत्ययं गाथार्थः॥१४९ ॥ तत्र कुलकरवंशेऽतीत इत्युक्तं, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह- (ग्रन्थाग्रम् ३०००) ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे । पलिओवमहभाए सेसंमि उ कुलगरुप्पत्ती ॥१५॥ अडभरहमज्झिल्लतिभागे गंगसिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥ १५१॥ प्रथमगाथागमनिका-अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा-सुषमदुष्षमासमा, तस्याः पश्चिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥१५०॥ द्वितीय ॥१०९॥ *स्तेषां वंशःप्रवाहः. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy