________________
OSHORORSC
यथा-भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहोत्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्दर्भस्य, मिश्रादचित्तस्य यथा-देहाद् विष्ठायाः, अचित्तात्सचित्तस्य यथा-काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा-काष्ठाद् घुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् घूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा-रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भँवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, 'क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः-कालो ह्यमूर्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्तो बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्प्रभवत्वादिति, एवं भावनिर्गमः तत्र पुद्गलाद्वर्णादिनिर्गमः, जीवात्क्रोधादिनिर्गमः | इति, तयोर्वा पुद्गलजीवयोवर्णविशेषक्रोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षविध इति गाथार्थः ॥१४५॥ एवं शिष्यमतिविकाशार्थ प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद् , इह च द्रव्यं वीरः क्षेत्रं महासेनवनं कालः प्रमाणकालः भावश्च भावपुरुषः, एवं च४ निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह
१ उष्णतायाः. २ केशायुतत्त्वात् एवमनेऽपि. * oर्गमो वक्तव्यः तृती०. + कालान्तरतश्च०. विकासार्थ,
OREDOS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org