SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभागः१ आवश्यक- दततश्च पुंसः पुमांसमभिदधतःपुन्निर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसक मभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा रूयुपयोगानन्यत्वात् स्त्रीरूप एवासौ, निर्देश्य॥१०७॥ निर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात् , तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः,ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिक प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासौ, रूढितश्च सामायिकाथरूपस्य नपुंसकत्वा स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिक नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेपविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ॥ १४४ ॥ । इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनामं ठवणा दविए खित्ते काले तहेव भावे अ। एसो उ निग्गमस्सा णिक्खेवो छव्विहो होइ ॥१४५ ॥ गमनिका-नामस्थापने पूर्ववत्, द्रव्य निर्गम:-आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्करस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य १ पक्षस्य अचित्तत्वात्. * संयोज्यं. + ति सामा०. व्यिस्य द्रव्याद्वा. रिक्तः सचित्ता.. ॥१०७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy