________________
आवश्यक
॥१०४॥
क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? को वा गणधराणां श्रवण इति, तथा लक्षणं वक्तव्यं श्रद्धांनादि, तथा नया-नैगमादयः, तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु' इत्यादि, 'अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति - 'तैवसंजमो अणुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिकं ? 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च' इत्यादि प्रतिपादयिष्यतेि, कस्य सामायिकमिति, वक्ष्यति - 'जैस्स सामाणिओ अप्पा' इत्यादि, व सामायिक, क्षेत्रादाविति, वक्ष्यति - 'खेत्तकाल दिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति - 'सबगतं सम्मत्तं सुए चरिते ण पज्जवा सबे' इत्यादि, कथमवाप्यते ?, वक्ष्यति - 'माणुस्स खित्तजाइ' इत्यादि, कियच्चिरं भवति ? कालमिति, वक्ष्यति - 'संम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते ? पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च - 'संम्मत्त देसविरया पलियस्स असंखभागमित्ता उ' इत्यादि,
१ सम्यक्त्व सामायिकादेः २ मूढनयिकं श्रुतं कालिकं तु. ३ तपःसंयमोऽनुमतः ४ जीवो गुणप्रतिपन्नः ५ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च ६ यस्य समानीतः आत्मा. ७ क्षेत्रकालदिग्गतिभव्य० ८ सर्वगतं सम्यक्त्वं श्रुते चरित्रे न पर्यंवाः सर्वे ९ मानुष्यं क्षेत्रं जातिः. १० सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः ११ सम्प्रक्वदेशविरताः पल्यस्यासंख्य भागमात्रा एव. * समवतारणं च + संभवन्ति । ०ध्यति. + ०दिसिकाल० १०पाद्यन्ते $ ० पन्नाश्चेति ६ ० मेत्ता.
Jain Education International
For Personal & Private Use Only
हारिभद्री - यवृत्तिः विभागः १
॥१०४॥
www.jainelibrary.org