________________
'सान्तरं' इति सह अन्तरेण वर्तत इति सान्तरं, किं सान्तरं निरंतरं वा?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति-कालमणतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -'सुतसम्मअगारीणं आवलियासंखभाग' इत्यादि, तथा 'भवा' इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठभवा चरित्ते' इत्यादि,आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, 'तिण्हें सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृश|न्तीति, वक्ष्यति-सम्मत्तचरणसहिआ सबं लोगं फुसे निरवसेसं' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-'सम्मदिही अमोहो सोही सब्भाव दंसणे बोही' इत्यादि वक्ष्यति। अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थ तुप्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह-पूर्वमध्ययनं सामायिक तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौघनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तब्रहणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुग
कालोऽनन्तश्च श्रुते, पुद्गलपरावर्त्तश्च देशोनः. २ श्रुतसम्यक्त्वागारिणां आवलिकाऽसंख्यभाग. ३ सम्यक्त्वदेशविरताः पल्यस्यासंख्यभाग | मात्रानेव । अष्टभवास्तु चारित्रे. ४ त्रयाणां सहस्रपृथक्त्वं, शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षाः-५ सम्यक्त्वचरणसहिताः सर्व लोकं स्पृशन्ति निरवशेष ६ सम्यग्दृष्टिरमोहः शोधिः सद्भावः दर्शनं बोधिः. *वाप्यते. + नेदम् + भावार्थ इति..ति भावार्थः । एतबारद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org