SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधर्म्यात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ॥ आह - मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वर्परप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राह - एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य “ श्रुतं मतिपूर्वम् ” ( ० द्व्यनेकद्वादशभेदम् श्रीतत्त्वार्थे अ० १ सू० २० ) इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यक्षत्वसाधर्म्याच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासा - नन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधर्म्यान्मनःपर्यायज्ञानस्य तदनन्तरं भावमुनिस्वाम्यादि साधर्म्यात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥ १ ॥ साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनि बोधिकज्ञानस्य स्वरूपमभिधीयते - तच्चाभि १ न शेषज्ञानानामित्यर्थः २ मत्यादीनामपि तेन स्वरूपनिरूपणात् ३ संक्षेपविवरणरूपत्वात् ४ भावश्रुतस्य. ५ मिथ्यादृष्टेत्रिज्ञानावासौ न प्राद मतिश्रुते स्त इति प्राय इति । ६ ज्ञानत्रयोपन्यासे. ७ लाभादिग्रहः. ८ पुद्गलावलम्बनत्वादिः ९ विपर्ययाभावत्वादिः + अत्रोच्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy